Mantra Pushpanjali

Written by on October 15, 2023


  • वेदोक्त मंत्रपुष्पंजली - वसुमती फडके, सुलभा फडके, जयश्री भट, उज्वला पटवर्धन
Update Required To play the media you will need to either update your browser to a recent version or update your Flash plugin.

वेदोक्त मंत्र पुष्पांजली

स्वर : वसुमती फडके,सुलभा फडके, जयश्री भट. उज्वला पटवर्धन

योऽपां पुष्पं वेद पुष्पवान् प्रजावान् पशुमान् भवति |
चन्द्रमा वा अपां पुष्पं पुष्पवान प्रजावान्पशुमान् भवति||
य एवं वेद योऽपामायतनं वेद आयतनवान् भवति ||

अग्निर्वा अपामायतनं आयतनवान् भवति|
योऽग्निरायतनं वेद आयतनवान् भवति |
आपो वा अग्नेरायतनं आयतनवान् भवति |
य एवं वेद योऽपामायतनं वेद आयतनवान् भवति ||

वायुर्वा अपामायतनं आयतनवान् भवति|
यो वायोरायतनं वेद आयतनवान् भवति |
आपो वै वायोरायतनं आयतनवान् भवति|
य एवं वेद योऽपामायतनं वेद आयतनवान् भवति ||

असौ वै तपन्नपामायतनं आयतनवान् भवति |
योऽमुष्य तपत आयतनं वेद आयतनवान् भवति |
आपो वा अमुष्य तपत आयतनं आयतनवान् भवति |
य एवं वेद योऽपामायतनं वेद आयतनवान् भवति ||

चन्द्रमा वा अपामायतनं आयतनवान् भवति |
यश्र्चन्द्रमस आयतनं वेद आयतनवान् भवति |
आपो वै चान्द्रमस आयतनं आयतनवान् भवति |
य एवं वेद योऽपामायतनं वेद आयतनवान् भवति ||

नक्षत्राणि वा अपामायतनं आयतनवान् भवति |
यो नक्षत्राणामायतनं वेद आयतनवान् भवति |
आपो वै नक्षत्राणामायतनं आयतनवान् भवति |
य एवं वेद योऽपामायतनं वेद आयतनवान् भवति ||

पर्जन्यो वा अपामायतनं आयतनवान् भवति |
यः पर्जन्यस्यायतनं वेद आयतनवान् भवति |
आपो वै पर्जन्यस्यायतनं आयतनवान् भवति |
य एवं वेद योऽपामायतनं वेद आयतनवान् भवति ||

संवत्सरो वा अपामायतनं आयतनवान् भवति |
यस्संवत्सरस्यायतनं वेद आयतनवान् भवति |
आपो वै संवत्सरस्यायतनं आयतनवान् भवति |
य एवं वेद योऽप्सु नावं प्रतिष्ठितां वेद प्रत्येव तिष्ठति ||


Continue reading

Play
Background